|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.93. अध्यायः 093
Mahabharata - Ashvamedhika Parva - Chapter Topics
जनमेजयेन नकुलेन यज्ञनिन्दाकारणं पृष्टेन वैशम्पायनेन तंप्रति सत्यदानतपोभिरेव स्वर्गादिसिद्धौ पशुहिंसाहेतुयज्ञस्य नातिप्रशस्ततरत्वमिति नकुलाभिप्रायवर्णनम्॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
जनमेजय उवाच।
यज्ञे सक्ता नृपतयस्तपःसका महर्षयः।
शान्तिव्यवस्थिता विप्राः शमे दम इति प्रभो॥ 14-93-1(95187)
तस्माद्यज्ञफलैस्तुल्यं न किञ्चिदिह दृश्यते।
इति मे वर्तते बुद्धिस्तथा चैतदसंशयम्॥ 14-93-2(95188)
यज्ञैरिष्ट्वा तु बहवो राजानो द्विजसत्तमाः।
इह कीर्ति परां प्राप्य प्रेत्य स्वर्गमितो गताः॥ 14-93-3(95189)
देवराजः सहस्राक्षः क्रतुभिर्भूरिदक्षिणैः।
देवराज्यं महातेजाःक प्राप्तवानखिलं विभुः॥ 14-93-4(95190)
अतो युधिष्ठिरो राजा भीमार्जुनपुरःसरः।
सदृशो देवराजेन समृद्ध्या विक्रमेण च॥ 14-93-5(95191)
अथ कस्मात्स नकुलो गर्हयामास तं क्रतुम्।
अश्वमेधं महायज्ञं राज्ञस्तस्य महात्मनः॥ 14-93-6(95192)
वैशम्पायन उवाच। 14-93-7x(7931)
यज्ञस्य विधिमग्र्यं वै फलं चापि नराधिप।
गदतः शृणु मे राजन्यथावदिह भारत॥ 14-93-7(95193)
पुरा शक्रस्य यजतः सर्व ऊचुर्महर्षयः।
ऋत्विक्षु कर्मव्यग्रेषु वितते यज्ञकर्मणि॥ 14-93-8(95194)
हूयमाने तथा वह्नौ होत्रा गुणसमन्विते।
देवष्वाहूयमानेषु स्थितेषु परमर्षिषु॥ 14-93-9(95195)
सुप्रतीतैस्तथा विप्रैः स्वागमैः सुस्वरैर्नृप।
अश्रान्तैश्चापि लघुभिरध्वर्युवृषभैस्तथा॥ 14-93-10(95196)
आलम्भसमये तस्मिन्गृहीतेषु पशुष्वथ।
महर्षयो महाराज बभूवुः कृपयाऽन्विताः॥ 14-93-11(95197)
ततो दीनान्पशून्दृष्ट्वा ऋषयस्ते तपोधनाः।
ऊचुः शक्रं समागम्य नायं यज्ञविधिः शुभः॥ 14-93-12(95198)
अपरिज्ञानमेतत्ते महान्तं धर्ममिच्छतः।
सन्ति यज्ञे बहुगुणा विधिदृष्टाः पुरंदर॥ 14-93-13(95199)
धर्मोपघातकस्त्वेष समारंभस्तव प्रभो।
नायं धर्मकृतो यज्ञो न हिंसा धर्म उच्यते॥ 14-93-14(95200)
आगमेनैव ते यज्ञं कुर्वन्तु यदि चेच्छसि।
विधिदृष्टेन यज्ञेन धर्मस्ते सुमहान्भवेत्॥ 14-93-15(95201)
यज्ञं बीजैः सहस्राक्ष त्रिवर्षपरमोषितेः।
एष धर्मो महाञ्शक्र चिन्तयानोसि गम्यते॥ 14-93-16(95202)
शतक्रतुस्तु तद्वाक्यमृषिभिस्तत्त्वदर्शिभिः।
उक्तं न प्रतिजग्राह मानमोहवशं गतः॥ 14-93-17(95203)
तेषां विवादः सुमहाञ्शक्रयज्ञे तपस्विनाम्।
जङ्गमैः स्थावरैर्वाऽपि यष्टव्यमिति भारत॥ 14-93-18(95204)
ते तु खिन्ना विवादेन ऋषयस्तत्त्वदर्शिनः।
अभिसंधाय शक्रेण पप्रच्छुर्नृपतिं वसुम्॥ 14-93-19(95205)
धर्मसंशयमापन्नान्सत्यं ब्रूहि महामते।
महाभाग कथं यज्ञेष्वागमो नृपसत्तम।
यष्टव्यं पशुभिर्मेध्यैरथो बीजैरजैरिति॥ 14-93-20(95206)
तच्छ्रुत्वा तु वसुस्तेषामविचार्य बलाबलम्।
यथोपनीतैर्यष्टव्यमिति प्रोवाच पार्थिवः॥ 14-93-21(95207)
एवमुक्त्वा स नृपतिः प्रविवेश रसातलम्।
उक्त्वेह वितथं राजंश्चेदीनामीश्वरः प्रभुः॥ 14-93-22(95208)
तस्मान्नि वाच्यं ह्येकेन बहुज्ञेनापि संशये।
प्रजापतिमपाहाय स्वयंभुवमृते प्रभुम्॥ 14-93-23(95209)
तेन दत्तानि दानानि पापेनाशुद्धबुद्धिना।
तानि सर्वाण्यनादृत्य नश्यन्ति विपुलान्यपि॥ 14-93-24(95210)
तस्याधर्मप्रवृत्तस्य हिंसकस्य दुरात्मनः।
दानेन कीर्तिर्भवति न प्रेत्येह च दुर्मतेः॥ 14-93-25(95211)
अन्यायोपगतं द्रव्यमभीक्ष्णं यो ह्यपण्डितः।
धर्माभिकाङ्क्षी त्यजति न स धर्मफलं लभेत्॥ 14-93-26(95212)
धर्मवैतंसिको यस्तु पापात्मा पुरुषाधमः।
ददाति दानं विप्रेभ्यो लोकविश्वासकारणम्॥ 14-93-27(95213)
पापेन कर्मणा विप्रो धनं प्राप्य निरङ्कुशः।
रागमोहान्वितः सोन्ते कलुषां गतिमश्नुते॥ 14-93-28(95214)
अपि संचयबुद्धिर्हि लोभमोहवशं गतः।
यज्ञं करोति भूतानि पापेनाशुद्धबुद्धिना॥ 14-93-29(95215)
एवं लब्ध्वा धनं मोहाद्यो हि दद्याद्यजेत वा।
न तस्य स फलं प्रेत्य भुंक्ते पापधनागमात्॥ 14-93-30(95216)
उञ्छं मूलं फलं शाकमुदपात्रं तपोधनाः।
दानं विभवतो दत्त्वा नराः स्वर्यान्ति धार्मिकाः॥ 14-93-31(95217)
एष धर्मो महायोगो दानं भूतदया तथा।
ब्रह्मचर्यं तथा सत्यमनुक्रोशो धृतिः क्षमा॥ 14-93-32(95218)
सनातनस्य धर्मस्य फलमेतत्सनातनम्।
श्रूयन्ते हि पुरावृत्ता विश्वामित्रादयो नृपाः॥ 14-93-33(95219)
विश्वामित्रोसितश्चैवं जनसश्च महीपतिः।
कक्षसेनार्ष्टिसेनौ च सिन्धुद्वीपश्च पार्थिवः॥ 14-93-34(95220)
एते चान्ये च बहवः सिद्धिं परमिकां गताः।
नृपाः सत्यैश्च दानैश्च न्यायलब्धैस्तपोधनाः॥ 14-93-35(95221)
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा ये चाश्रितास्तपः।
दानधर्माग्निना शुद्धास्ते स्वर्गं यान्ति भारत॥ 14-93-36(95222)
॥ इती श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि त्रिनवतितमोऽध्यायः॥ 93 ॥
Mahabharata - Ashvamedhika Parva - Chapter Footnotes
7-93-13 नहि यज्ञे पशुगणाः इति झ.पाठः॥ 7-93-16 त्रिवर्षपरमोषितैः पुराणैः॥ 7-93-20 बीजै रसैरिति झ. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|